|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.16. अध्यायः 016
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-16-0x(3053)(28813)
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा।
महारथेषु च्छन्नेषु मासा दश समाययुः ॥ 1 ॥ 4-16-1(28814)
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशांपते ।
आवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 2 ॥ 4-16-2(28815)
तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने।
ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः ॥ 3 ॥ 4-16-3(28816)
तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः।
सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ॥ 4 ॥ 4-16-4(28817)
तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव ।
कीचकः कामयामास कामबाणप्रपीडितः ॥ 5 ॥ 4-16-5(28818)
स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै।
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥ 6 ॥ 4-16-6(28819)
नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा।
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ॥ 7 ॥ 4-16-7(28820)
का देवरूपा हृदयंगमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने।
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम् ॥ 8 ॥ 4-16-8(28821)
अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम्।
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ॥ 9 ॥ 4-16-9(28822)
प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम्।
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ॥ 10 ॥ 4-16-10(28823)
ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम्।
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ॥ 11 ॥ 4-16-11(28824)
का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने।
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ॥ 12 ॥ 4-16-12(28825)
रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम्।
कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ॥ 13 ॥ 4-16-13(28826)
नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे।
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ॥ 14 ॥ 4-16-14(28827)
एवंरूपा मया नारी काचिदन्या महीतले।
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ॥ 15 ॥ 4-16-15(28828)
लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे।
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ॥ 16 ॥ 4-16-16(28829)
अतीव रूपिणी किं त्वमनङ्गविहारिणी।
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ॥ 17 ॥ 4-16-17(28830)
अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम्।
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ॥ 18 ॥ 4-16-18(28831)
निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम्।
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ॥ 19 ॥ 4-16-19(28832)
हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ ।
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ॥ 20 ॥ 4-16-20(28833)
कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ।
कामप्रतोदाविव मां तुदतश्चारुहासिनि ॥ 21 ॥ 4-16-21(28834)
वलीविभङ्गचतुरं स्तनभारविनामितम्।
कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ॥ 22 ॥ 4-16-22(28835)
दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम्।
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ॥ 23 ॥ 4-16-23(28836)
जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः ।
त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् ॥ 24 ॥ 4-16-24(28837)
आत्मप्रदानवर्षेण संगमाम्भोधरेण च।
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ॥ 25 ॥ 4-16-25(28838)
मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः।
त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने ।
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ॥ 26 ॥ 4-16-26(28839)
प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः।
अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम।
आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि ॥ 27 ॥ 4-16-27(28840)
चित्रमाल्याम्बरधरा सर्वाभरणभूषिता।
कामं प्रकामं सेव त्वं मया सह विलासिनि ॥ 28 ॥ 4-16-28(28841)
नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता।
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ॥ 29 ॥ 4-16-29(28842)
स्वादून्यमृतकल्पानि पेयानि विविधानि च।
पिबमाना मनोज्ञानि रममाणा यथासुखम् ॥ 30 ॥ 4-16-30(28843)
भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम्।
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ॥ 31 ॥ 4-16-31(28844)
इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि ।
अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ॥ 32 ॥ 4-16-32(28845)
त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ॥ 33 ॥ ॥ 4-16-33(28846)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि षोडशोऽध्यायः ॥ 16 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|